📚 स्कन्दपुराणम् (वैष्णवखण्डः) - वासुदेवभागः
Page 1
Download 📥
________________ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीकृष्णाय नमो नमः ॥ अथश्रीवासुदेवमाहात्म्यारम्भः प्रथमोऽध्यायः सावर्णिप्रश्नवर्णनम् शौनक उवाच I जीवानां श्रेयसे सौते! बहुधा साधनानिते । धर्मोज्ञानञ्च वैराग्यं योगादीन्युदितानिनः इतिहासैर्बहुविधैर्विस्पष्टार्थानितानिच । सर्वाण्यपिमहाबुद्धे ! श्रुतान्यस्माभिरादरात् सर्वेषां मनुजानान्तुदुष्कराण्येवतानितु । बाहुल्याच्चान्तरायाणांतत्सिद्धिरपिदुर्लभा प्रयत्नेनाऽतिमहतापुरुषधैर्व्यशालिभिः । साधितान्यपिसिध्यन्तितानि कालेनभूयसा अतो भवान्द्विजातानामाश्रमाणाञ्च सर्वशः । ब्रवीतु सुकरोपायं स्त्रीरूद्रादेरपीह नः ॥ कृतेन येनाऽप्यल्पेन येन केनाऽपि देहिना । अन्तरायैरविहतं महदेव फलं भवेत् ॥ ६॥ मोक्षस्य साधनं तादृक् सुविचायं महामते । हिताय सर्वजीवानां कृपया वक्तुमर्हसि प्रसादाद्बलदेवस्य व्यासस्य जनकस्य च । जानामि सर्वमेवत्वं तन्नो ब्रूहि वुभुत्सतः सौतिरुवाच महर्षिरपि सावर्णिरेवमेव हि शौनक । विनीतः स्कन्दमप्राक्षीत्पुनः शङ्कर नन्दनम् ॥ * बङ्गाक्षरमुद्रितपुस्तकेलक्ष्मणपुर ( लखनऊ ) मुद्रितपुस्तकेचेदं वासुदेवमाहात्म्यं नैव दृश्यतेनारदपुराणीयविग्यानुक्रमणेमाडेश्वरखण् डेवः सुदेवमाहात्म्य परिगणनं कृतं परं वेङ्कटेश्वर मुद्रितग्रन्थ एतन्माहात्म्यस्य वै गवखण्ड समाप्त्यनन्तरं कृतंनिबन्धन मिति परिशिष्टशैल्योप निबद्धयतेऽस्माभिरिति निभालयन्तु सुधियः । ४६